Wednesday 18 October 2017

दिपावली

*अयं दीपावली महोत्सवः*
भवत्कृते भवत्परिवारकृते च क्षेमस्थैर्य
आयुः आरोग्य ऐश्वर्य अभिवृद्घिकारकः
भवतु अपि च श्रीसद्गुरुकृपाप्रसादेन
सकलदुःख निवृत्तिः
आध्यात्मिक प्रगतिः
श्रीभगवत्प्राप्तिः
च भवतु इति
जगदंबा दुर्गा भुवनेश्वरी चरणयोः प्रार्थयामि।। !! शुभं भवतु !!
!! दिपावल्याः हार्दिक शुभाशयाः !!
 शुभ दिपावली !
स्फोटकानाम् आस्फोटनम् - अति सर्वत्र वर्जयेत्
दीपावली अस्माकम् देशस्य प्राचीनतमम् पर्वम्।
प्रकाशपर्वम् इत्यनेन नाम्ना ख्यातः उत्सवः एषः। सर्वानन्दनिधानम्।
 प्रतिवर्षम् पर्वम् एतत् प्रतीक्षामः वयम्।
अस्मिन् दिने सर्वाधिकम् आकर्षकम् मनोरञ्जनम् भवति स्फोटकानाम् आस्फोटनम्।
 विचित्राणि वर्णयुक्तानि स्फोटकानि आकाशे भूमौ च विविधरूपाणि दर्शयन्ति।
जनाः तानि दृष्ट्वा तुष्यन्ति।
बालाः तु विशेषेण तुष्यन्ति।
शीर्षन्यायालयस्य निर्णयात् स्फोटकानाम् आस्फोटनम् इतिहासात् एव पठितुम् शक्यते।
आस्फोटनम् आल्हादयति खलु, परन्तु अति सर्वत्र वर्जयेत्।
रात्रौ आस्फोटकानाम् शब्दः कर्णौ बधिरीकरोति वायुमण्डलम् च दूषयति।
पूर्वम् जनसंख्या सीमिता आसीत्।
वृक्षाः वायुम् शुद्धम् कुर्वन्ति स्म।
इदानीम् जनसंख्या प्रवृद्धा, वृक्षसंख्या क्षीणा।
 विस्फोटकेभ्यः निर्गतः धूमः रुग्णान् पीडयति,
नवजातिशिशुभ्यः हानिकरः सिध्यति।
 दीपावलीसमये शरदि आकाशः निर्मल: भवति।
सर्वत्र पवित्रता विराजते।
अतः वयम् पवित्रतया सद्भावनाया उत्साहेन च दीपावलीम् मान्येम,
वसुन्धरां भूषितां कुर्याम न तु दूषिताम्।
येन सर्वेषां जीवन सुखमयं भवेत्।
 किम् तेन उत्सवेन सः कस्मैचित् अपि कष्टकरः भवेत्? 
'सर्वे भवन्तु सुखिन:' इति अस्माकम् आदर्शः।
दीपावल्या: पर्वम् न केवलं गृहस्य अन्तर्बहि: प्रकाशकरणस्य पर्वं अस्ति,
एतत् पर्वम् स्वकीयम् अन्त: मनस्य अंधकारं दूरी कृत्वा समाजे देशे च एकता,
बन्धुत्वं च स्नेहस्य प्रकाश: प्रसारणस्य उत्सव: अपि अस्ति।
एतदर्थम् अस्माभिः विस्फोटकं सामग्रीणाम् अल्पम् उपयोगं करणीयम् पर्यावरणस्य संरक्षणम् भवति। स्वच्छता च स्थापिता भवेत्।
*रचना:--- स्वामिशिशुविदेहानन्द सरस्वति तिवारीमहाराज कारंजालाड ४४४१०५*

No comments:

Post a Comment